#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00012 Uniform title: āṣṭaprakaraṇa tattvatrayanirṇaya Main title: āṣṭaprakaraṇam tattvatrayanirṇayaḥ Secondary title: tatvaprakasika-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācarya Author : sadyojyoti Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the tattvatrayanirṇayaḥ from the tatvaprakasika-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācarya in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 Publisher : śivāgamasiddhāntaparipālanasaṅgham Publication year : 1925 Publication city : Publication country : India #################################################### तत्त्वत्रयनिर्णयः सद्योज्योतिः शिवाचार्यप्रणी तः अघोरशिवाचार्यकृतवृत्तिसहितः सिद्धानि यत्प्रसादाद् दृष्टादृष्टानि वाञ्छितान्यचिरात् | नत्वा शिवं विधास्ये तत्त्वत्रयनिर्णये वृत्तिम् || तत्र तावदाचार्यः प्रारिप्सितप्रकरणस्याविघ्नपरिसामाप्त्यर्थं तत्प्रतिपाद्येनार्थेन विशेषयन् परमेश्वरमेव प्रणमति- पुंभ्यः फलं विचित्रं ददाति संवीक्ष्य बन्धवैचित्र्यम् | स्वमहिम्नाऽनाद्युदयोऽनायत्तो नमो नमस्तस्मै || १ || अनादिरुदयः सर्वविषयज्ञानक्रियाप्रकाशो निर्मलत्वेन यस्य सोऽनाद्युदयः, तस्याप्यादिमुक्तत्वाभ्युपगमेऽनवस्था स्यादिति भावः | अत एव चासौ न कस्यचिदायत्तः, स्वतन्त्र इत्यर्थः | एवंविधो यः शक्त्यात्मना स्वेन महिम्ना बन्धचैचित्र्यमालोक्य मलावृतत्वेनास्वतन्त्रेभ्यः पुरुषेभ्यो विचित्रं फलं ददाति | तत्र पक्वमलेभ्यस्तत्पाकवैचित्र्यानुगुणं परापरमोक्षं ददाति, अपक्वमलेभ्यस्तत्परिपाकार्थमेव कर्मवैचित्र्यानुगुणं भोगरूपं फलं ददातीत्यनेनास्य सर्वानुग्राहकत्वं सिद्धम् | स च शिव एव, तस्यैव सर्वज्ञत्वसर्वकर्तृत्वात्मनाऽनादिसिद्धेन शिवत्वेन योगो यस्तस्मै शिवाय नमो नम इति || १ || इत्थं कृतपरगुरुनमस्कारः प्रकरणकरणं प्रतिजानीते- अथ नतिभाजस्तन्त्रे संक्षेपात् किञ्चिदर्थसद्भावम् | वक्ष्ये ज्ञातं गुरुतो हितकृतये मन्दबुद्धीनाम् || २ || अत्र ह्याचार्यः श्रीमद्रौरवसिद्धमर्थसद्भावं तत्त्वसंग्रहेण संक्षेपात् प्रकाश्य श्रीमत्स्वायम्भुवसिद्धमनेन प्रकाशयति | अत एव तत्समाप्तावुक्तम्- इत्यवदत् तत्त्वानि तु सद्योज्योतिः सुवृत्तिकृत् (श्लो० ५७) इति, श्रीमद्रौरववृत्तेरेव सुवृत्तित्वेन सिद्धत्वात् | अत्राप्युपसंहारे वक्ष्यति- उक्तः समासतोऽयं तत्त्वत्रयनिर्णयश्च वृत्तिकृता | स्वायम्भुवस्य (श्लो० ३२) इति | नतिर्नमस्कारः | सर्वात्मभिः क्रियमाणं भजतीति नतिभागत्र शिव एव, तस्यैव सर्वेश्वरत्वेन सर्वाराध्यत्वात् | तस्य शिवस्य तन्त्रे शास्त्रे गुरुसंप्रदायादा परमेश्वरमविच्छिन्नाज्ज्ञातं मन्दबुद्धीनां हिताय वक्ष्य इति || २ || शम्भुः पुरुषो माया नित्यं विभु कर्तृशक्तियुक्तं च | सुप्तेऽपि विकृतिजाते त्रितयं जागर्ति तत्त्वानाम् || ३ || अत्र शं सुखमप्रेर्यतारूपं भावयतीति शम्भुः | शम्भुशब्देन समवेतशक्त्यविनाभूतः शिवः कथ्यते, पुरुषशब्देन च जात्येकवचनेन सर्वे आत्मानः, मायाशब्देन च तन्त्रोच्चारितेन मायामहामायारूपं शुद्धाशुद्धं जगदुपादानद्वयमुच्यते | यदुक्तं श्रीमद्रौरवे- मायोपरि महामाया (४|२८) इति | तच्च त्रितयं नित्यम्, अनादित्वात्, तेषामप्यादिमत्त्वेऽनवस्थाप्रसङ्गात्, नित्यत्वेन श्रवणाच्च | किञ्च, विभु | तत्र शम्भुपुरुषौ सर्वगतावेव, असर्वगतत्वे व्योमादिवदमूर्तत्वेन गमनासंभवात् | शिवस्य सर्वाधिष्ठानत्वमात्मनश्च देशान्तरकर्मफलभोगो नोपपद्यते यतः | माया च स्वकार्यव्यापिका | अत्र च मलस्याऽनाद्यात्मावारकत्वेनार्थान्नित्यत्वं व्यापित्वं च सिद्धमिति न पृथक् तस्योपादानम् | तथा कर्तृशक्तियुक्तं च | तत्र पतिपुरुषौ चेतनत्वाद् जगत्कर्तृत्वेन भोक्तृतया च कर्तृशक्तियुक्तौ, कर्तृत्वादेव च ज्ञातृशक्तियुक्तौ | दृक्क्रियात्मकमेव च स्वरूपं चैतन्यस्य | यच्छ्रूयते- चैतन्यं दृक्क्रियारूपम् (मृ० वि० २|५) इति | माया च कर्तुः परमेश्वरस्य शक्त्याऽधिष्ठिता | ततश्च तत्त्वानां त्रितयं कार्यवर्गे संगृहीतेऽपि जागर्ति प्रकाशत एव || ३ || इत्थमेषां साधर्म्यमुक्त्वा वैधर्म्यमाह- शिवपुरुषावतिसंख्यौ प्रसवविहीनौ चिता समेतौ च | एकं प्रसवित्वयुतं मायातत्त्वं चिता विहीनं च || ४ || तत्र आत्मवर्गोऽनन्तत्वादतिसंख्यः, शिवोऽप्यनन्तचिदचिद्वस्त्वधिष्ठानादौपचारिणेक भेदानन्त्येन युक्तत्वादुपचारेणातिसंख्यः | अथवा मुक्तात्मनामपि मलापनयनादभिव्यक्तेन सर्वविषयेण ज्ञानक्रियात्मना शिवत्वेन योगाच्छिवपदेनोपादानं कृत्वाऽतिसंख्यत्वमुक्तम् | तौ च द्वावविकारित्वात् प्रसवेन परिणामात्मना विहीनौ प्रोक्तवच्चैतन्ययुक्तौ च | मायातत्त्वं तु शद्धमशुद्धं वा परमोपादानत्वादेकम् | अनेकत्वे ह्यचैतन्ये सत्यनेकत्वात् कारणपूर्वकत्वं स्यात् | उपादानत्वादेव च तत् कार्यप्रसवयुक्तं मृदादिवदचेतनं च || ४ || इत्थं शिवात्मनोर्मायातत्त्वाद् वैधर्म्यं प्रदर्श्याऽधुना शिवस्यात्मनां च वैधर्म्यं दर्शयितुमाह- ईशाः प्रवृत्तवीर्यास्तत्रैकोऽनादिसिद्धगुणविभवः | मुक्तेश्वरवैमल्यं सर्वार्थे दृक्क्रिये च ततः || ५ || प्रवृत्तवीर्याः सर्वविषयसामर्थ्या ये, ते सर्व एव स्वतन्त्रत्वादीशशब्दवाच्याः | तेषु मध्यादेकः परमशिवोऽनादिसिद्धगुणसम्पदित्युक्तम् | ततश्च मुक्तात्मनां पतिसमत्वभाजाम्, ईश्वराणां विद्येश्वरादीनां ततः शिवादेव निमित्तभूताद्वैमल्यं शिवत्वाभिव्यक्तिश्च संपन्ना | तत्र विद्येशादयोऽधिकारमलांशयोगाच्छिवनियोगेनाधिकारं कुर्वन्ति, मुक्तात्मानस्तु तदप्रेर्यत्वात् तेनैव परानुग्रहनिर्वाहाच्च न प्रवर्तन्ते || ५ || नन्वनादिमुक्तस्य शिवस्यापि सकलनिष्कलादिभेद ईशानतत्पुरुषादिभेदश्च श्रूयते, अत आह- नतिपूर्वः कृतवर्गस्तेन स्वामिन्यनादिसंसिद्धे | सकलाकलप्रभेदो गीतो यश्च क्रियाविषयः || ६ || कृतवर्गः शुद्धाशुद्धरूपः कार्यवर्गः, नतिपूर्वं शुद्धाशुद्धोपादानपरिणामपूर्वः, उत्पद्यत इति शेषः | तेनाऽनादिसिद्धे तस्मिन् यः सकलादिभेदः, यश्च क्रियाविषयः सृष्ट्यादिपञ्चककृत्यविषयः सद्योजातादिभेदः, स्वकार्योद्योगादिभेदात् सृष्ट्यादिकार्योपाधिभेदाच्चोपचारेण शास्त्रेषु गीतो न परमार्थिकः | यच्छ्रूयते- अधिकारी च भोगी च लयी स्यादुपचारतः इति, तद्भेदः कृत्यभेदेन न भेदः परमार्थतः इति (च?), ईशः सदाशिवः शान्तः कृत्यभेदाद् विभिद्यते इति (च) | पशुविषयः सकलाकलप्रभेदो वास्तव एव | तथाहि- बन्धत्रययुक्तः कलादियोगे, विज्ञानादिना कर्मक्षयेऽपि संस्कारवशात् किञ्चित्कालमवस्थितश्चेति द्विविधः सकलः | अकलोऽपि द्विविधः | तत्र प्रलयेन कलादेरुपसंहृतत्वान्मलकर्मयुक्तः प्रलयाकलः, विज्ञानयोगादिना कर्मक्षयेण केवलमलमात्रयुक्तो विज्ञानकेवलः | मुक्तस्त्वमल एव | यदुक्तं श्रीमत्स्वायम्भुवे- अथात्माऽविमलो बद्धः पुनर्मुक्तश्च दीक्षया | विज्ञेयः स त्रिधावस्थः केवलः सकलोऽमलः || इति || ६ || अथ बद्धस्वरूपमाह- शिवगुणवद् गुणजातं पुंसामपि सर्वसंगतं किञ्च | एकेन हि सर्वेषां मलेन तदनादिसंरुद्धम् || ७ || शिववज्ज्ञानक्रियात्मकं व्यापकं स्वरूपमात्मनामप्यस्तीति | उक्तं च श्रीमन्मृगेन्द्रे- चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा | सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् || (वि० २|५) इति | तच्च व्यञ्जकापेक्षत्वात् सर्वेषामात्मनां स्वरूपं केनचिदेकेन मलेनानादिकृत्वा संरुद्धमवसीयते | तच्च मलमनादित्वादेकमेव | अनेकत्वे ह्यचेतनत्वाद् घटादिवत् कारणान्तरं मृग्यम् | ततश्चात्मनामनाद्यावरणं न संभवति | तदुक्तं श्रीमत्स्वायम्भुवे- अथानादिमलः पुंसाम् (३३|१) इति || ७ || तेनानीशा ह्यज्ञा निर्व्यापारा विना बलव्यक्तिम् | न च शक्तास्ते स्वबलं विमलं सर्वार्थगं स्वतः कर्तुम् || ८ || मलयुक्तत्वाच्चात्मानः स्वबलव्यक्तिं विनाऽस्वतन्त्रा अज्ञा अक्रियाश्च भवन्ति, ततस्तद्व्यञ्जकं शिवमपेक्षन्त इति भावः | नन्वात्मानो ज्ञानादिना स्वबलव्यक्तिं करिष्यन्ति ? तदयुक्तमित्याह- न च शक्ता इति | अयमभिप्रायः- मलस्य द्रव्यत्वाच्चक्षुषः पटलस्येव न ज्ञानमात्रान्निवृत्तिः, अपि तु चक्षुर्वैद्यव्यापारेणेवेश्वरव्यापारेण दीक्षाख्येनैवेति | एतच्च विस्तरेणोक्तमस्माभिस्तत्त्वसंग्रहलघुटीकायाम् || ८ || मलसंरोधाद् यदतस्तेषामकृतो हि शिववशीकारः | पत्युस्त्वेते रोध्या बध्याः शोध्याश्च बोध्याश्च || ९ || मलावृतत्वात् तेषामनावृतेन शिवेन वशीकारोऽकृतोऽनादिसिद्ध इति यदतोऽस्मात् कारणात् ते रोधशक्त्या रोध्याः, कर्मभोगार्थं कलादिबन्धेन बध्याश्च | रोधश्चात्र पाशसामर्थ्योत्पादनेनात्मनां यथानुगुणभोगभोजनात्मकस्तिरोभावः | ततश्च मलपरिपाके सति दीक्षया मलादिपाशापनयनेन शोध्याः, तयैव शिवत्वव्यक्त्या प्रबोध्याश्च भवन्ति || ९ || अत्र पराशङ्का- नित्ये ज्ञानादिबले मलादिपरिकल्पनं ननु ज्यायः | सत्यं नान्या दृक् तत् तादृग् यस्मात् तदीश्वरे दृष्टम् || १० || ननु ज्ञानक्रियाबले नित्ये सिद्धे तदावारकत्वेन मलादिकल्पनं ज्यायो भवति नान्यथा, तस्य तु कादाचित्कत्वदर्शनात् कथमेवं कल्प्यते ? अत आह- सत्यमिति | यस्मादीश्वरे तद् ज्ञानक्रियात्मकं चैतन्यं तादृग् नित्यं दृष्टम्, तस्मादात्मस्थमपि तत् चैतन्यत्वान्नान्या दृग् नित्यमेव | अन्यथा आत्मनां विकारित्वेनाचेतनत्वादनित्यत्वादिदोषप्रसङ्गः स्यादिति भावः || १० || किञ्च, मलाद्यभावे शरीरादियोगोऽप्यस्य न संभवतीत्याह- मायाविकारयोगे कर्मयुतः कारणं मलो भविनाम् | मलशक्तयो विभिन्नाः प्रत्यात्मानं च तद्गुणावरिकाः || ११ || कर्मभोगार्थमेव शरीरादेरिष्टत्वान्निर्मलस्य मुक्तात्मनस्तदसंभवाच्च शरीरादियोगो नास्ति | तदुक्तं श्रीमत्स्वायम्भुवे- तद्भावभाविनो भावाः सर्वे मायात्मकाः पशोः इति, तथा- कर्मतश्च शरीराणि विविधानि (विषयाः कारकाणि चेति तत्रत्यः पाठः |) शरीरिणाम् (स्वाय० ३२|१३) इति | नन्वेवं चेन्मलस्यैकत्वादेकमोक्षे सर्वमोक्षप्रसङ्गः ? अत आह- मलशक्तय इति | मलस्य प्रत्यात्मनियतानेकशक्तित्वादेकस्याः पाकेन निवृत्तौ तदावार्यस्यैव मोक्षो न सर्वस्येति भावः || ११ || एतदेवाह- विनिवर्तते निरोधात् पुंबलतः परिणमन् मलः कालात् | परिणतिविशेषयोगात् स कदाचित् कस्यचित् कथञ्चिच्च || १२ || मलो हि परिणमन् पुंबलविषयादावरणान्निवर्तते | स चाचेतनत्वान्न स्वयं निवर्तते, अपि त्वीश्वरस्य व्यापारेणैवेत्युक्तम् | स च परिणामः क्रमविकासस्वभावानां पद्मानामिवाऽनियतकाल इत्याह- परिणतिविशेष इति || १२ || अत एव परिणतिविशेषयोगान्मलपाकतारतम्येनात्मनां साधनभेदात् परापरमुक्तिभेद इत्याह- अत एव पुद्गलानां परिदृष्टाः साधनादुदयभेदाः | कालाद् गुणतश्च तथा घटतेऽसौ नान्यथेशतो जातु || १३ || मोक्षः सप्तप्रकारोऽयम् (यो० ५|६७) इत्यादि श्रीमतङ्गादिश्रूयमाणः साधनभेदाद् भक्तिश्रद्धादिगुणभेदात् कालभेदाच्च जायमानोऽसौ मोक्षात्मक उदयभेदो मलपरिणतिविशेषादेव घटते, नान्यथा | न चेश्वरात् तदनपेक्षादेष भेदो भवति, पक्षपातादिदोषप्रसङ्गात् | न चास्य सर्वानुग्राहकस्य पक्षपातः || १३ || अत एव नैष्ठिक्यादिदीक्षाभेदस्याप्युपपत्तिरित्याह- इत्थं गणनाहीनं निमित्तमभिवीक्ष्य चेश्वरेणोक्तम् | सद्युक्तिमद् विमुक्तौ नेतरथा साधनानन्त्यम् || १४ || एकरूपे मलपरिपाके तन्निवृत्त्युपायस्तत्फलं चैकरूपमेव स्यादिति भावः | एष च दीक्षाभेदो मलपरिपाकादिभेदश्चास्माभिः मृगेन्द्रवृत्तिदीपिकायां विस्तरेणोक्तः || १४ || साधनानन्त्यमेव प्रपञ्चयितुमाह- यस्य यथा यावद्भिः स श्रेयोरोधकृन्मलः पाशैः | तस्य तथा तावद्भिर्निहितैर्विजहाति बन्धत्वम् || १५ || यस्य विज्ञानकलादेरात्मनो यावद्भिः पाशैः सह यथा मलो रोधं करोति | विज्ञानकलस्य केवल एवाज्ञत्वाक्रियत्वव्याघातभाक्त्वादिभिः स्वकार्यात्मकैः पाशैः संरोधकृत् | तदुक्तं श्रीमत्स्वायम्भुवे- तत्सद्भाववशोऽज्ञत्वादिति पाशौघः इति | प्रलयाकलस्य तु कर्मभिश्च, सकलस्यापि तदनुगुणैः साधारणासाधारणरूपैस्तद्भुवनादिभिश्च रोधं करोति, तस्य तावद्भिरात्मना सह निहितैः सद्भिर्बन्धत्वं विजहाति || १५ || ततश्च- इत्थंरूपाणि यतः सन्मुक्तेः साधनानि दृश्यन्ते | शार्वे शास्त्रे तानि च नेतरथा युक्तिमन्ति जायन्ते || १६ || इत्थंरूपाणि व्यस्तसमस्तपाशच्छेदकारीणि सकलादिभेदेन साधारनिराधारभेदानि नैष्ठिक्यादिभेदभिन्नानि च दीक्षाख्यानि साधनानि यतः शास्त्रे श्रूयन्ते, ततश्चतानीतरथा मलपरिणतिविशेषात्मककारणभेदाभावे युक्तिमन्ति च न भवन्ति | ततः साधनभेदः, श्रुत्यन्यथानुपपत्त्या मोक्षभेदः, तत्कारणमलपरिपाकभेदश्चावश्यमभ्युपगन्तव्यः | मलपरिपाकचिह्नानि च शास्त्रेषु श्रूयन्ते- येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये | तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ || भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ | (मृ० वि० ५|४-५) इत्यादि | ततस्तच्चिह्ननिश्चय एव गुरुभिर्दीक्षा कर्तव्या, नान्यथेति || १६ || तत्र प्रश्नः- परिणामयति मलं कः कर्मापेक्ष्यैव चित्रकमणुभ्यः | बीजाद् ददाति चित्र्यं निष्कृष्य च यः ससाधनं भोगम् || १७ || मलस्याचेतनत्वान्न स्वतः पाको युज्यत इत्यर्थः | अत्र उत्तरमाह- कर्मापेक्ष्यैवेति | यः कर्मवैचित्र्यानुगुणं भोगं सुखदुःखात्मकं तत्साधनानि शरीरादीनि बीजाद् मायातत्त्वादशुद्धान्निष्कृष्योत्पाद्य ददाति, स शिव एव मलमपि रोधशक्त्या पाचयति | तत्र च अशुद्धाध्वन्यनन्तद्वारेणैवाऽस्य कर्तृत्वम् | यदुक्तं श्रीमत्किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (वि० ३|२७) इति || १७ || किञ्च- यश्च स्वापे बीजं कुर्वन्नास्ते प्रसूतये योग्यम् | विश्वं च तत्र निहितं प्रलये तेनैव विश्रान्त्यै || १८ || स्वापे शिवोऽपि चित्रशक्तिं मायां पुनः प्रसवयोग्यां करोति, तथाविधांश्चात्मनः पुनर्भोगयोग्यान् विधत्ते || १८ || कर्म च भुक्त्यै पुंसां जाग्रति विश्वेऽपि किञ्चिदीशानः | समलं स महाबलदः कारुण्यात् सर्वदैव विनिवृत्त्यै || १९ || कर्म च पुंसां भोगयोग्यं करोति पाचयतीत्यर्थः | तदुक्तं श्रीमन्मृगेन्द्रे- स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् पाचयन् कर्मिकर्म | मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन् सर्वं यद्यथा वस्तुजातम् || इति, (वि० ४|१५) भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् | तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते || भविनां भवखिन्नानां सर्वभूतहितो यतः | इति च | (वि० ४|१३-१४) इत्थं प्रलयेऽपि शिवस्य व्यापारं प्रदर्श्य स्थितिकाले तद्व्यापारमाह- जाग्रति विश्वेऽपीति | महान्तं बलं सर्वज्ञसर्वकर्तृतारूपमात्मभ्यो ददातीति महाबलदः स ईशानो विश्वे जाग्रत्यपि सर्वदा करुणायुक्तत्वान्मलसहितं किञ्चित् कर्म पाकेन भोगेन विनिवृत्त्यै योग्यं करोति, मलपरिपाकार्थं यत्किञ्चित् पक्वं कर्म स्थितिकाले भोजयतीत्यर्थः || १९ || किञ्च- तद्विनिवृत्तेः प्रागपि तत्सामर्थ्योद्बलनदानकृते | पुंबलरोधं कुर्वन् दृष्टः स च पाशशक्तिसाहाययम् || २० || मलनिवृत्तेः प्रागपि तस्याचेतनस्य स्वतः पाकस्यासंभवात् तत्सामर्थ्योपोद्बलनार्थं तिरोधानशक्त्या पुरुषबलरोधं पाशशक्तिसाहाययं च कुर्वन् परमेश्वरो दृश्यते | नन्वात्मानुग्रहाय प्रवृत्तस्यात्मतिरोधानेन पाशानुग्रहोऽनुपपन्नः ? तन्न, मलस्य पाकादेव निवर्तयितुं शक्यत्वात् | तत्पाकार्थं मायीयबन्धसम्बन्धेन भोगभोजनात्मकं तिरोधानं दुःखावहं क्षारादिनेव वैद्यः करोतीति तदप्यनुग्रहार्थमेवेत्यविरोधः | तदुक्तं श्रीमन्मृगेन्द्रे- यथा क्षारादिना वैद्यस्तुदन्नपि न रोगिणम् | कोटाविष्टार्थदायित्वाद् दुःखहेतुः प्रतीयते || (वि० ७|१८) इति || २० || ततश्च- दृष्ट्वा च तन्निवृत्त्यै योग्यं युङ्क्ते नृमुक्तये करणम् | बीजस्येव स्वापे परिणतिरिष्टा मलस्य चितिहानेः || २१ || निवृत्तियोग्यं पक्वं तन्मलं दृष्ट्वा शिवः पशुमोक्षाय दीक्षाख्यं स्वशक्तिरूपं करणं युङ्क्ते, प्रयोजयतीत्यर्थः | यद्येवं कर्मभोगस्यैव मलपाकहेतुतयाऽभिधानात् प्रलये मलस्य पाको न स्यादत आह- बीजस्येवेति | अचेतनत्वान्मलस्य मायावच्चेतनशिवाधिष्ठानेन तदानीमपि पाकः संभवत्येवेत्युक्तम् || २१ || अत्र पराशङ्का- यदि च विनिवृत्तियोग्यं कुरुते शम्भुर्मलं ततः किमिति | सर्वात्मसु नो युगपत् कुर्यादिति चोदयन् वाच्यः || २२ || इत्थं वदन्नेवं प्रत्यनुयोज्य इत्याह- इति चोदयन्निति | कथमित्याह- किमिति न सर्वं युगपत् कुरुते भोग्यं स्वकर्म तदहर्वा | न समाधिरनेकत्वात् कालान्तरभोग्यताबलीयस्त्वम् || २३ || तदहर्वेति | यदैवागतं तदैवेत्यर्थः | ननु कर्मणामश्वमेधब्रह्महत्यादीनां विरुद्धफलत्वान्न एकस्मिन् काले भोगः संभवतीति चे, तदेतत्समाधानं न युक्तमित्याह- न समाधिरिति || २३ || कथं न समाधिरित्यत आह- सर्वविकारोत्पत्तौ शक्ता शक्तिः सदैव सन्निहिता | ईशे बीजे च यतो भविनि विभुत्वं च भोक्तृभावश्च || २४ || तेनानेकानीशः कृत्वा वृन्दानि कार्यकरणादेः | बीजाद् युगपत् पुरुषं भोजयति सर्वकर्माणि || २५ || यस्माच्छिवे साधारणासाधारणमायाविकारोत्पत्तौ समर्था शक्तिर्वर्तते, मायायां च समस्तकर्मफलव्यापकत्वं संसारिणि च व्यापकत्वं भोक्तृत्वं च विद्यते, ततो मायातत्त्वाद् युगपदेवानेकानि शरीरादीन्युत्पाद्य शिवः पुरुषं सर्वकर्माणि भोजयेदिति भवत्पक्षेऽपि प्रसज्यते || २४-२५ || पुनरपि पूर्वपक्ष्याशङ्कते- नन्वनुमिनुमः क्रमशो दृष्ट्वा कर्माणि भुज्यमानानि | पाचयति तथैव शम्भुस्तानीति समानमुभयत्र || २६ || क्रमिकस्य भोग्यस्य दर्शनात् क्रमिक एव कर्मपाकः शिवेन पाच्ययोग्यतानुरूपं पद्मादेरिव सवित्रादिना क्रियत इत्यनुमीयते | ततो नास्माकं युगपत् कर्मभोजनप्रसङ्गः | एवं चेदस्माभिरपि क्रमिक एवात्मनां संसारवैराग्यशिवभक्त्यादिशक्तिपातचिह्नं दृष्ट्वा शक्तिपातहेतुर्मलपाकस्तादृशोऽनुमीयते | ततो न सर्वेषां युगपन्मलपरिपाक इति वयमपि न पर्यनुयोज्या एव | यदुक्तम्- (लौकिकन्यायसाहस्र्यां १३९ संख्याको न्याय इति म० पा० वृत्तौ विद्यापादे (पृ० २१८-२१९, टि० २२) द्रष्टव्यम् |) यत्र स्यादुभयोर्दोषः परिहारोऽपि वा समः | नैकः पर्यनुयोक्तव्यस्तादृगर्थविनिश्चये || इत्यभिप्रायेणाह- समानमिति || २६ || एतदेव प्रपञ्चयति- मत्वा कार्यं प्रोक्तं विनिवृत्तिर्गम्यते मलस्यात्र | शक्नोति हि योग्यत्वं तथैव कर्तुं महेश्वरोऽपीति || २७ || अत्र हि प्रोक्तं कार्यं दीक्षानुष्ठानात्मकं शक्तिपाताविनाभूतं दृष्ट्वा मलस्य विनिवृत्तिर्ज्ञायते, ततः क्रमिककार्यदर्शनात् क्रमिकमेव मलपरिपाकं शिवः कुर्यान्न युगपदित्यनुमीयत इत्यर्थः || २७ || इत्थं क्रमिकस्यैव मलपाकादेः स्थितिकाले दर्शनात् संहारसमयेऽपि पाच्यानुगुण एव मलादेः पाको न युगपत् सर्वेषां पाकोत्पत्तिरिति तद्विषयप्रश्नेऽपि भवता उत्तरमभिधेयम्, अतोऽस्मान् प्रति युगपन्मलपाकपर्यनुयोगो भवतो न युक्त इत्यभिप्रायेणाह- स्वापे चैवं योनेर्योग्यत्वे कर्मणश्च पृष्टेन | भवतोत्तरमभिधेयं स्थितिसमये समानकालीने || २८ || योनेर्मायाया योग्यत्वं प्रसूतिसामर्थ्योत्पादः, कर्मणस्तु फलदानयोग्यत्वं पाक एव | शेषं सुगमम् || २८ || कथमुत्तरमभिधेयमित्यत आह- स्रोतस्तु च सर्गादौ नियमविहीने यथा च यद्वस्तु | यावति काले भवति तद्धि तथा तावदीशेन || २९ || कर्तुं शक्यमितीदं तुल्यं मोक्षे च तन्निमित्ते च | एवमुत्पत्तिनियमविहीने शरीरादिसर्गे तत्स्थितौ संहारे वा दृश्यमाने सति मायास्रोतस्सु मध्याद् यद्यद्वस्तु यावति काले येन प्रकारेण समुत्पद्यते, तद्वस्तु तावति काले तादृगेवेश्वरेण कर्तुं शक्यते, नान्यथेति भवता मायाकार्योत्पत्तियौगपद्यप्रश्नस्य उत्तरमभिधेयम् | एवं कर्मपाकादावपीत्युक्तम् | एष च परिहारो मोक्षदानयौगपद्यप्रश्ने तद्धेतोर्मलपाकस्य यौगपद्यप्रश्ने वा समान इत्याह- इदं तुल्यमिति || २९ || अस्य च मलस्य वस्त्वात्मकं रूपमेकत्वादि च विस्तरेण शास्त्रेषूक्तमित्याह- अलमुद्दिष्टमशुद्धेः सद्रूपं निरवशेषेण || ३० || शास्त्रेष्वेकत्वाद्यं शक्त्यानन्त्यं विना निवर्त्यं तत् | शक्त्यानन्त्यप्रमुखं सद्युक्तेः शासनोत्थायाः || ३१ || यच्छ्रूयते- तदेकं सर्वभूतानामनादि निबिडं महत् | प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् || (मृ० वि० ७|८) इत्यादि, तच्च तस्य स्वरूपं प्रोक्तवत् शक्त्यानन्त्यं विना पुरुषेभ्यो न निवर्तयितुं शक्यम्, एकमोक्षे सर्वमोक्षप्रसङ्गात्, एकस्यापि वा मोक्षाभावप्रसङ्गाच्चेत्याह- शक्त्यानन्त्यमिति | एतच्चानन्तशक्तित्वादिस्वरूपं मलस्य शास्त्रसिद्धतया युक्त्या च साध्यत इत्याह- शक्त्यानन्त्यप्रमुखमिति | उद्दिष्टमिति पूर्वेणैव सम्बन्धः | आदिशब्देन अनादित्वादि गृह्यते | यच्छ्रूयते- तदनादिस्थमर्वाग् वा तद्धेतुस्तदतोऽन्यथा | रुणद्धि मुक्तानेवं चेन्मोक्षे यत्नस्ततो मृषा || (मृ० वि० ७|९) इत्यादि | एष च मलविचारोऽस्माभिर्मृगेन्द्रवृत्तिदीपिकायां विस्तरेण दर्शित इति तत एवावधेयः | ग्रन्थविस्तरभयात्तु नात्र लिख्यते || ३०-३१ || अथ प्रकरणोपसंहारः- उक्तः समासतोऽयं तत्त्वत्रयनिर्णयश्च वृत्तिकृता | स्वायम्भुवस्य जडतामपनेतुमनादिकां पुंभ्यः || ३२ || अनादिमलावृतज्ञानक्रियत्वान्नैयायिकादिपरिजल्पितां जडतामात्मभ्योऽपनेतुं तेषामविकारित्वात् तदावारको मलः, तद्भावभाविनी माया, तन्निवृत्तिकर्ता शिवश्चात्र संक्षेपेण प्रतिपाद्यत इति || ३२ || श्रीमद्घोरशिवाह्वयेन गुरुणा श्रीजन्यया व्याख्यया लोकेऽपि प्रथितेन कुण्डिनकुलं चोलेष्वलङ्कुर्वता | श्रीसर्वात्मशिवाङ्घ्रिपद्मरजसामाराधकेनामला श्रीतत्त्वत्रयनिर्णयस्य विवृतिर्लेशादियं निर्मिता || इत्यघोरशिवाचार्यविरचिता तत्त्वत्रयनिर्णयवृत्तिः समाप्ता || ########### END OF FILE #######